सामान्य पूजा विधि
आचमन- (आत्म शुद्धि के लिए)
ॐ केशवाय नमः,
ॐ नारायणाय नमः,
ॐ माधवाय नमः।
तीन बार आचमन कर आगे दिये मंत्र पढ़कर हाथ धो लें।
ॐ हृषीकेशाय नमः।।
दिग्रक्षणम्
ॐ पूर्वे रक्षतु गोविन्द : आग्नेयां गरुडध्वज : ।
याम्यां रक्षतु वाराहो नारसिंहस्तु नैऋत्ये ॥
वारुण्या केशवो रक्षेद्वायव्यां मधुसूदन : ।
उत्तरो श्रीधरो रक्षेदीशाने तु गदाधर : ॥
उर्ध्व गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रम : ।
एवं दशदिशो रक्षेद्वासुदेवो जनार्दन : ॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ।
दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ।
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ॥
उर्ध्वं ब्रह्माणि में रक्षेद्धस्ताद् वैष्णवी तथा ।
एवं दश दिशो रखेच्चामुण्डा शव वाहना ॥
जया में चाग्रत : पातु विजया पातु पृष्ठत : ।
अजिता वामपार्श्वे : तु दक्षिणे चापराजिता ॥
पुनः बायें हाथ में जल लेकर दाहिने हाथ से अपने
ऊपर और पूजा सामग्री पर
निम्न श्लोक पढ़ते हुए छिड़कें।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः।।
ॐ पुण्डरीकाक्षः पुनातु,
ॐ पुण्डरीकाक्षः पुनातु
ॐ पुण्डरीकाक्षः पुनातु।
आसन शुद्धि-
नीचे लिखा मंत्र पढ़कर आसन पर जल छिड़के-
ॐ पृथ्वि! त्वया धृता लोका देवि ! त्वं विष्णुना धृता।
त्वं च धारय मां देवि ! पवित्रां कुरु चासनम्।।
"अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा
यः स्मरेत्पुण्डरीकाक्षं सावाह्याभ्यन्तरः शुचिः ।।"
शिखाबन्धन-
ॐ मानस्तोके तनये मानऽआयुषि मानो
गोषु मानोऽअश्वेषुरीरिषः।
मानोव्वीरान् रुद्रभामिनो
व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते।
तिष्ठ देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे।।
कुश धारण-
निम्न मंत्र से बायें हाथ में तीन कुश
तथा दाहिने हाथ में दो कुश धारण करें।
ॐ पवित्रोस्थो वैष्णव्यौ सवितुर्व्वः
प्रसवऽउत्पुनाम्यच्छिद्रेण
पवित्रोण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः
पुनेतच्छकेयम्।
पुनः दायें हाथ को पृथ्वी पर उलटा रखकर
"ॐ पृथिव्यै नमः"
इससे भूमि पूजा का आसन शुद्धि करें।
दीप प्रज्वलन
शुभं करोति कल्याणम् आरोग्यम् धनसंपदा ।
शत्रुबुद्धि विनाशाय दीपज्योति नमोऽस्तुते ॥
दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दन: ।
दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते ॥
यजमान तिलक-
ब्राह्मण यजमान के ललाट पर कुंकुम तिलक करें।
ॐ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।
तिलकान्ते प्रयच्छन्तु धर्मकामार्थसिद्धये।
स्वयं को तिलक लगाने का मंत्र
ॐ चंदनस्य महत्पुण्यं पवित्रं पापनाशनम्।
आपदां हरते नित्यं, लक्ष्मीस्तिष्ठति सर्वदा ॥
ब्राह्मणों को तिलक लगाने का मंत्र
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नास्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिरधातु ॥
नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च।
जगत् हिताय कृष्णाय गोविंदाय नमो नमः॥
पुरुषों को / जजमान का तिलक लगाने का मंत्र
ॐ भद्रमस्तु शिवं चास्तु महालक्ष्मिः प्रसीदतु।
रक्षन्तु त्वां सदा देवाः सम्पदाः सन्तु सर्वदा ॥
सपत्ना दुर्गः पापा दुष्ट सत्वाद्युपद्रवाः।
तमाल पत्र मालोक्यः निष्प्रभावा भवन्तु ते ॥
कन्याओं को तिलक लगाने का मंत्र
ॐ अंबे अंबिके अंबालिके नामा नयति कश्चन।
सस्सत्यश्वकः सुभद्रिकां काम्पिल वासिनिम् ॥
माताओं को तिलक लगाने का मंत्र
ॐ सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते॥
ॐ देहि सौभाग्यं आरोग्यं देहि मे परमं सुखम्।
रूपं देहि जयं देहि यशो देहि द्विषोङहि॥
ॐ जयंती मंगला काली भद्रकाली कपालिनी।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते ॥
बच्चों को तिलक लगाने का मंत्र
ॐ यावत् गंगा कुरूक्षेत्रे यावत् तिष्ठति मेदनी।
यावत् रामकथा लोके तावत् जीवतु आयुः ॥
मौली (कलावा/रक्षा सूत्र)
येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामनुबध्नामि रक्षे माचल मा चल।।
स्वत्ययन - उसके बाद यजमान आचार्य एवं
अन्य ऋत्विजों के साथ हाथ में पुष्पाक्षत लेकर स्वस्त्ययन पढ़े।
स्वस्त्ययन - 1
ॐ गणांना त्वा गणपतिं हवामहे
प्रियाणां त्वा प्रियपतिं हवामहे
निधिनां त्वा निधिपतिं हवामहे वसो म
आह्मजानि गर्भधमात्वमजासि गर्भधम्
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो वृहस्पतिर्दधातु ॥
ॐ पयः पृथिव्यां पय ऽओषधीषु
पयो दिव्यन्तरिक्षे पयो धाः।
पयस्वतीः प्रदिशः सन्तु मह्यम्।
ॐ विष्णु रराट मसी विष्णु स्वस्ति
विष्णु सूर्यसु विष्णु ध्रुवो वसी
वैष्णव मसी विष्णवे त्वा
ओउम अग्निर्देवता वातो देवता
सूर्यो देवता चन्द्रमा देवता
वसवो देवता रूद्र देवता दित्या देवता
मरुतो देवता विश्वदेवा देवता
बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥
ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः
पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः
सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ विश्वानि देव सवितर्दुरितानि परासुव ।
यद् भद्रं तन्न आ सुव
ॐ शान्ति शान्ति सर्वारिष्ट रुष्ट सु शान्ति भवतु
स्वस्त्ययन - 2
ॐ आ नो भद्राः क्रतवो यन्तु
विश्वतोऽदब्धासोऽ परीतास उद्भिदः।
देवा नो यथा सदमिद् वृधे
असन्नप्रायुवो रक्षितारो दिवे दिवे।।
देवानां भद्रा सुमतिर्ऋजूयतां देवाना
ँ रातिरभि नो निवर्तताम्।
देवाना ँ सख्यमुपसेदिमा व्वयं
देवा न आयुः प्रतिरन्तु जीवसे।।
तान्पूर्वया निविदा हूमहे वयं भगं
मित्रामदितिं दक्षमश्रिधम्।
अर्यमणं वरुण ँ सोममश्विना
सरस्वती नः सुभगा मयस्करत्।।
तन्नो व्वातो मयोभु वातु भेषजं
तन्माता पृथिवी तत्पिता द्यौः।
तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना
शृणुतं धिष्ण्या युवम्।।
तमीशानं जगतस्तस्थुषस्पतिं
धियञ्जिन्वमवसे हूमहे वयम्।
पूषा नो यथा वेदसामसद् वृधे
रक्षिता पायुरदब्धः स्वस्तये।।
स्वस्ति न: इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु।।
पृषदश्वा मरुतः पृश्निमातरः
शुभं यावानो विदथेषु जग्मयः।
अग्निर्जिह्ना मनवः सूरचक्षसो
विश्वे नो देवा अवसागमन्निह।।
भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा ँ सस्तनुभिर्व्यशेमहि
देवहितं यदायुः।।
शतमिन्नु शरदो अन्ति देवा
यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रसो यत्रा पितरो भवन्ति
मा नो मध्या रीरिषतायुर्गन्तोः।।
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता
स पिता स पुत्राः।
विश्वे देवा अदितिः पञ्चजना
अदितिर्जातमदितिर्जनित्वम्।।
ॐ द्यौः शान्तिरन्तरिक्ष Ủ शान्तिः
पृथिवी शान्तिरापः
शान्तिरोषधयः शान्तिर्व्वनस्पतयः
शान्तिर्विश्वेदेवाः
शान्तिर्ब्रह्मशान्तिः सर्वं Ü शान्तिः
शान्तिरेव शान्तिः सामा शान्तिरेधि।।
यतो यतः समीहसे ततो नोऽअभयं कुरू।
शं नः कुरु प्रजाभ्योऽभयं नः पशुब्भ्यः।।
सुशान्तिर्भवतु।।
हाथ में लिए पुष्प और अक्षत गणेश एवं गौरी पर चढ़ा दें।
पुनः हाथ में पुष्प अक्षत आदि लेकर मंगल श्लोक पढ़े।
श्रीमन्महागणाधिपतये नमः।
लक्ष्मीनारायणाभ्यां नमः।
उमामहेश्वराभ्यां नमः।
वाणीहिरण्यगर्भाभ्यां नमः।
शचीपुरन्दराभ्यां नमः।
मातापितृचरणकमलेभ्यो नमः।
इष्टदेवताभ्यो नमः।
कुलदेवताभ्यो नमः।
ग्रामदेवताभ्यो नमः।
वास्तुदेवताभ्यो नमः।
स्थानदेवताभ्यो नमः।
सर्वेभ्यो देवेभ्यो नमः।
सर्वेभ्यो ब्राह्मणेभ्यो नमः।
आदित्यं गणनाथं च देवीं रुद्रं च केशवं।
पञ्चदैवत्वमित्युक्तं सर्वकर्मसु पूजयेत् ॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ।। 1।।
वक्रतुण्ड ! महाकाय ! कोटिसूर्यसमप्रभ ! ।
निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।। 2।।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।। 3।।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।। 4।।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।। 5।।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।। 6।।
अभीप्सितार्थ-सिद्धîर्थं पूजितो यः सुराऽसुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।। 7।।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ! ।
शरण्ये त्रयम्बके गौरि नारायणि ! नमोऽस्तु ते ।। 8।।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ।। 9।।
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि।। 10।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।। 11।।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिध्र्रुवा नीतिर्मतिर्मम ।।12।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। 13।।
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं ब्रजामि शरणं हरिम् ।। 14।।
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।। 15।
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ||16
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥17
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ।
गणेशेनाधिका ह्येता वृद्धो पूज्याश्च षोडशः ॥18
ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्ती प्रचोदयात् ॥
ॐ नारायणाय विद्महे वासुदेवाय धीमहि
तन्नो विष्णुः प्रचोदयात् ॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि
तन्नो रुद्रः प्रचोदयात् ॥
ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि
तन्नो दुर्गा प्रचोदयात् ॥
ॐ भास्कराय विद्महे दिवाकराय धीमहि
तन्नः सूर्यः प्रचोदयात् ॥
ॐ श्री महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि
तन्नो लक्ष्मी प्रचोदयात्"
ॐ रामदूताय विद्मिहे कपिराजाय धीमहि
तन्नो: मारुति: प्रचोदयात||
ॐ कालकालाय विधमहे,कालाअथीथाया धीमहि,
तन्नो कालभैरव प्रचोदयात ll
हाथ में लिये अक्षत-पुष्प को गणेशाम्बिका पर चढ़ादें।
संकल्प दाहिने हाथ में जल,
अक्षत, पुष्प और द्रव्य लेकर संकल्प करे।
लघु संकल्प
ॐ विष्णुर्विष्णुर्विष्णुः अद्यैतस्य
(रात में :अस्यां रात्रौ कहें)
मासानाम् मासोतमे मासे
....... मासे ........ पक्षे ........... तिथौ
....... वासरे........त्रोत्पन्नः .
सपरिवारस्य सर्वारिष्ट निरसन पूर्वक सर्वपाप क्षयार्थं,
दीर्घायु शरीरारोग्य कामनया
धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं,
श्रुति स्मृति पुराणतन्त्रोक्त फल प्राप्तयर्थं,
सकल मनोरथ सिध्यर्थ ........... करिष्ये।
विशेष संकल्प
ॐ विष्णुर्विष्णुर्विष्णु: ।
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य
अद्यैतस्य ब्रह्मणोह्नि द्वितीये परार्धे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे
अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे
भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे
आर्यावर्तान्तर्गतब्रह्मावर्तस्य ............ क्षेत्रे
............ मण्डलान्तरगते
............ नाम्निनगरे (ग्रामे वा)
श्रीगड़्गायाः ............ (उत्तरे/दक्षिणे)
दिग्भागे देवब्राह्मणानां सन्निधौ
श्रीमन्नृपतिवीरविक्रमादित्यसमयतः ......... संख्या
-परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि -
संवत्सराणां मध्ये ............ नामसंवत्सरे,
............ अयने, ............ ऋतौ,
............ मासे,............ पक्षे,
............ तिथौ, ............ वासरे,
............ नक्षत्रे,............ योगे,
............ करणे,............ राशिस्थिते चन्द्रे,
............ राशिस्थितेश्रीसूर्ये, ............ देवगुरौ
शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु
सत्सु एवं ग्रहगुणविशेषणविशिष्टायां
शुभपुण्यतिथौ ............ गोत्रोत्पन्नस्य ...........
सपरिवारस्य ममात्मन:
श्रुति-स्मृति-पुराणोक्त-पुण्य-फलावाप्त्यर्थं ममऐश्वर्याभिः
वृद्धयर्थं अप्राप्तलक्ष्मीप्राप्त्यर्थं
प्राप्त लक्ष्म्याश्चिरकाल संरक्षणार्थं सकलमनः -
इप्सितकामना संसिद्धयर्थं
लोके वा सभायां राजद्वारे वा
सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं
समस्त-भय-व्याधि-जरा-पीडा-मृत्यु परिहारद्वारा
आयुरारोग्यैश्वर्याद्यभिवृद्धर्थं तथा
च मम जन्मराशे: साकाशाद्ये केचिद्विरुद्ध-
चतुर्थाष्टम-द्वादश-स्थानस्थिता: क्रूरग्रहा:
तै: संसूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं
तद्विनाशद्वारा सर्वदा तृतीयैकादश-स्थान-
स्थितवच्छुभ-फल-प्राप्त्यर्थं पुत्र-पौत्रदि-
सन्ततेरविच्छिन्न वृद्धयर्थम्! आदित्यादिन्नवग्रहानूकूलता-
सिद्धयर्थं इन्द्रादि -दशदिक्पाल-प्रसन्नता-सिद्धयर्थम्।
आधिदैविक-आधिभौतिक-आध्यात्मिका-
त्रिविधतापोपशमनार्थं धर्मार्थ-काम-मोक्ष-फलावाप्त्यर्थं
यथा-ज्ञानं यथा-मिलितोपचारद्रव्यै: ............ देवस्य
पूजनं/पाठं/.......मन्त्रं ....... संख्याकं जपं करिष्ये।
अक्षत सहित जल भूमि पर छोड़ें।
पुनः जल आदि लेकर-
तदङ्गत्वेन निर्विध्नतासिद्धîर्थं श्रीगणपत्यादिपूजनम्
आचार्यादिवरणञ्च करिष्ये। तत्रादौ दीपशंखघण्टाद्यर्चनं च करिष्ये।
जलपात्र (कर्मपात्र) का पूजन-
इसके बाद कर्मपात्र में थोड़ा गंगाजल छोड़कर गन्धाक्षत,
पुष्प से पूजा कर प्रार्थना करें।
ॐ गङ्गे च यमुने चैव गोदावरि! सरस्वति!।
नर्म्मदे! सिन्धु कावेरि! जलेऽस्मिन् सन्निधिं कुरु।।
अस्मिन् कलशे सर्वाणि तीर्थान्यावाहयामि नमस्करोमि।
कर्मपात्र का पूजन करके
उसके जल से सभी पूजा वस्तुओं पर छिड़कें.
घृतदीप-(ज्योति) पूजन-
"वह्निदैवतायै दीपपात्राय नमः"
से पात्र की पूजा कर ईशान दिशा में घी का दीपक जलाकर
अक्षत के ऊपर रखकर
ॐ अग्निर्ज्ज्योतिज्ज्योतिरग्निः स्वाहा,
सूर्यो ज्ज्योतिज्ज्योतिः सूर्यः स्वाहा।
अग्निर्व्वर्च्चो ज्ज्योतिर्व्वर्च्चः स्वाहा,
सूर्योव्वर्चोज्ज्योतिर्व्वर्च्चः स्वाहा ।।
ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा।
भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्।
यावत्पूजासमाप्तिः स्यात्तावदत्रा स्थिरो भव।।
ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः
आवाहयामि सर्वोपचारार्थे
गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि।
शंखपूजन
शंख को चन्दन से लेपकर देवता के वायीं ओर
पुष्प पर रखकर शंख मुद्रा करें।
ॐ शंखं चन्द्रार्कदैवत्यं वरुणं चाधिदैवतम्।
पृष्ठे प्रजापतिं विद्यादग्रे गङ्गासरस्वती।।
त्रौलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया।
शंखे तिष्ठन्ति वै नित्यं तस्माच्छंखं प्रपूजयेत्।।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
नमितः सर्वदेवैश्च पाझ्जन्य! नमोऽस्तुते।।
पाञ्चजन्याय विद्महे पावमानाय धीमहि
तन्नः शंखः प्रचोदयात्।
ॐ भूर्भवः स्वः शंखस्थदेवतायै नमः
शंखस्थदेवतामावाहयामि
सर्वोपचारार्थे गन्धपुष्पाणि
समर्पयामि नमस्करोमि।
घण्टा पूजन-
ॐ सर्ववाद्यमयीघण्टायै नमः,
आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम्।
कुरु घण्टे वरं नादं देवतास्थानसन्निधौ।।
ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः
गरुडमावाहयामि सर्वोपचारार्थे
गन्धाक्षतपुष्पाणि समर्पयामि।
गरुडमुद्रा दिखाकर घण्टा बजाएं।
दीपक के दाहिनी ओर स्थापित कर दें।
धूपपात्र की पूजा-
ॐ गन्धर्वदैवत्याय धूपपात्राय नमः
इस प्रकार धूपपात्र की पूजा कर स्थापना कर दें।
गणेश गौरी पूजन
हाथ में अक्षत लेकर-भगवान् गणेश का ध्यान-
गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं
नमामि विघ्नेश्वरपादपङ्कजम्।।
गौरी का ध्यान -
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।।
श्री गणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि।
गणेश का आवाहन- हाथ में अक्षत लेकर
ॐ गणानां त्वा गणपति ँ हवामहे
प्रियाणां त्वा प्रियपति ँ हवामहे
निधीनां त्वा निधिपति ँ हवामहे
वसो मम।आहमजानि गर्भधमा
त्वमजासि गर्भधम्।।
एह्येहि हेरम्ब महेशपुत्र !
समस्तविघ्नौघविनाशदक्ष !।
माङ्गल्यपूजाप्रथमप्रधान
गृहाण पूजां भगवन् ! नमस्ते।।
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः,
गणपतिमावाहयामि, स्थापयामि, पूजयामि च।
हाथ के अक्षत को गणेश जी पर चढ़ा दें।
पुनः अक्षत लेकर
गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।
आवाहन -
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्।।
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्।।
ॐभूर्भुवः स्वः गौर्यै नमः,
गौरीमावाहयामि, स्थापयामि, पूजयामि च।
प्रतिष्ठा-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं
तनोत्वरिष्टं यज्ञ ँ समिमं दधातु।
विश्वे देवास इह मादयन्तामो 3 म्प्रतिष्ठ।।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्वमर्चायै मामहेति च कश्चन।।
(आसन के लिए अक्षत समर्पित करे)।
गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम्।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि
गणेशाम्बिकाभ्यां नमः।
पाद्य, अर्घ्य. आचमनीय, स्नानीय
और पुनराचमनीय हेतु जल अर्पण करें.
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्।।
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि
गणेशाम्बिकाभ्यां नमः।
दुग्धस्नान-
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे
पयो धाः पयस्वतीः।प्रदिशः सन्तु मह्यम्।।
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
पयः स्नानं समर्पयामि।
दधिस्नान -
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः।
सुरभि नो मुखाकरत्प्रण आयू ँ षि तारिषत्।।
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव! स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
दधिस्नानं समर्पयामि।
(पुनः जल स्नान करायें।)
घृत स्नान -
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्।।
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
घृतस्नानं समर्पयामि।
(पुनः जल स्नान करायें।)
मधुस्नान -
ॐ मधुव्वाताऽऋतायते मधुक्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः मधुनक्तमुतोषसो मधुमत्पार्थिव ँ रजः।
मधुद्यौरस्तु नः पिता मधुमान्नो व्वनस्पतिर्म्मधुमाँऽ
अस्तु सूर्यः माध्वीर्गावो भवन्तु नः।।
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
मधुस्नानं समर्पयामि।
(पुनः जल स्नान करायें।)
शर्करास्नान -
ॐ अपा ँ रसमुद्वयस Ü सूर्ये सन्त ँ समाहितम्।
अपा Ủ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय
त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्।।
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
शर्करास्नानं समर्पयामि।
(पुनः जल स्नान करायें।)
पञ्चामृतस्नान -
ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सश्रोतसः।
सरस्वती तु पञ्चधा सोदेशेऽभवत्सरित्।।
पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
पञ्चामृतस्नानं समर्पयामि।
शुद्धोदकस्नान-
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा
अवलिप्तारौद्रा नभोरूपाः पार्जन्याः।।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि स्नानार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
शुद्धोकस्नानं समर्पयामि।
आचमन -
शुद्धोकदकस्नानान्ते आचमनीयं जलं समर्पयामि।
(आचमन के लिए जल दें।)
वस्त्र-
ॐ युवा सुवासाः परिवीत आगात्
स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति
स्वाध्यो3 मनसा देवयन्तः।।
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रामतः शान्तिं प्रयच्छ मे।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रां समर्पयामि।
वस्त्रान्ते आचमनीयं जलं समर्पयामि।
वस्त्र के बाद आचमन के लिए जल दे।
उपवस्त्र-
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः।
वासो अग्ने विश्वरूप ँ सं व्ययस्व विभावसो।।
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मापकारकम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
उपवस्त्रं समर्पयामि।
उपवस्त्र न हो तो रक्त सूत्र अर्पित करे।
आचमन - उपवस्त्र के बाद आचमन के लिये जल दें।
यज्ञोपवीत -
ॐ यज्ञोपवीतं परमं पवित्रां प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।।
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर !।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
यज्ञोपवीतं समर्पयामि।
आचमन -
यज्ञोपवीत के बाद आचमन के लिये जल दें।
चन्दन -
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत।।
श्रीखण्डं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
चन्दनानुलेपनं समर्पयामि।
अक्षत -
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
अस्तोषत स्वभानवो विप्रा नविष्ठया
मती योजान्विन्द्र ते हरी।।
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
अक्षतान् समर्पयामि।
पुष्पमाला -
ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः।।
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
पुष्पमालां समर्पयामि।
दूर्वा -
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।
एवा नो दूर्वे प्रतनुसहश्रेण शतेन च।।
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक !।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
दूर्वाङ्कुरान् समर्पयामि।
सिन्दूर-
ॐ सिन्धोरिव प्राध्वने शूघनासो
वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी
काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः।।
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
सिन्दूरं समर्पयामि।
कुमकुम (रोली) मंत्र
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता: सुशोभिता:।
मया निवेदिता भक्त्या: गृहाण परमेश्वर॥
अबीर गुलाल
ॐ अहिरिव भोगैः पर्येति बाहुं
ज्याया हेतिं परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि विद्वान्
पुमान् पुमा ँ सं परि पातु विश्वतः।।
अबीरं च गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वर!।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
नानापरिमलद्रव्याणि समर्पयामि।
सुगन्धिद्रव्य-
ॐ अहिरिव भोगैः पर्येति बाहुं
ज्याया हेतिं परिबाधमानः।
हस्तघ्नो विश्वा वयुनानि विद्वान्
पुमान् पुमा ँ सं परि पातु विश्वतः।।
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि।
धूप-
ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्वतं योऽस्मान्
धूर्व्वति तं धूर्व्वयं वयं धूर्व्वामः।
देवानामसि वद्दितम ँ सस्नितमं
पप्रितमं जुष्टतमं देवहूतमम्।।
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
धूपमाघ्रापयामि।
दीप-
ॐ अग्निर्ज्योतिज्योतिरग्निः स्वाहा
सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा
सूर्यो वर्चो ज्योतिर्वर्च स्वाहा।।
ज्योर्ति सूर्यः सूर्यो ज्योतिः स्वाहा।।
साज्यं च वर्तिसंयुक्तं वद्दिना योजितं मया।
दीपं गृहाण देवेश त्रौलौक्यतिमिरापहम्।।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
दीपं दर्शयामि।
हस्तप्रक्षालन -
‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।
ॐ प्राणाय स्वाहा।
ॐ अपानाय स्वाहा।
ॐ समानाय स्वाहा।
ॐ उदानाय स्वाहा।
ॐ व्यानाय स्वाहा।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
नैवेद्यं निवेदयामि।
नैवेद्यान्ते आचमनीयं
ऋतुफल -
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
ऋतुफलानि समर्पयामि।
जल-
फलान्ते आचमनीयं जलं समर्पयामि।
जल अर्पित करे।
ॐ मध्ये-मध्ये पानीयं समर्पयामि।
उत्तरापोशनं समर्पयामि
हस्तप्रक्षालनं समर्पयामि
मुखप्रक्षालनं समर्पयामि।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
करोद्वर्तनकं चन्दनं समर्पयामि।
ताम्बूल -
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
मुखवासार्थम् एलालवंगपूगीफलसहितं
ताम्बूलं समर्पयामि।
(इलायची, लौंग-सुपारी के साथ ताम्बूल अर्पित करे।)
दक्षिणा-
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
कृतायाः पूजायाः साद्गुण्यार्थे
द्रव्यदक्षिणां समर्पयामि।
(द्रव्य दक्षिणा समर्पित करे।)
विशेषार्घ्य-
ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा
और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर
निम्नलिखित मन्त्र पढ़ेंः-
ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रौलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्।।
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो!।
वरदस्त्वं वरं देहि वाञ्िछतं वाञ्छितार्थद।।
गृहाणाघ्र्यमिमं देव सर्वदेवनमस्कृतम्।
अनेन सफलाघ्र्येण फलदोऽस्तु सदा मम।
आरती-
ॐ इद ँ हविः प्रजननं मे अस्तु
दशवीर ँ सर्वगण ँ स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त।।
ॐ आ रात्रि पार्थिव ँ रजः पितुरप्रायि धामभिः।
दिवः सदा ँ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः।।
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
अरार्तिकं समर्पयामि।
कर्पूरगौरं करुणावतारं
संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
(कर्पूर की आरती करें, आरती के बाद जल गिरा दें।)
मन्त्र पुष्पांजलि- अंजली में पुष्प लेकर खड़े हो जायें।
ॐ मालतीमल्लिकाजाती- शतपत्रादिसंयुताम्।
पुष्पांजलिं गृहाणेश तव पादयुगार्पितम्।।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि
धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्रा
पूर्वे साध्याः सन्ति देवाः।।
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर।।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
पुष्पाञ्जलिं समर्पयामि।
(पुष्पाञ्जलि अर्पित करे।)
प्रदक्षिणा -
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
प्रदक्षिणां समर्पयामि।
(प्रदक्षिणा करे।)
प्रार्थना
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते।।
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय।
निर्विविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।।
अनया पूजया सिद्धि-बुद्धि-सहितः
श्रीमहागणपतिः साङ्गः परिवारः प्रीयताम्।।
श्रीविघ्नराजप्रसादात्कर्तव्य
अमुककर्मनिर्विघ्नसमाप्तिश्चास्तु।
क्षमा प्रार्थना
ॐ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया |
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि || १ ||
आवाहनं न जानामि न जानामि विसर्जनम् |
पूजां चैव न जानामि क्षम्यतां परमेश्वरि || २ ||
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि |
यत्पूजितं मया देवि परिपूर्णं तदस्तु में || ३ ||
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् |
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः || ४ ||
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके |
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु || ५ ||
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् |
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि || ६ ||
कामेश्वरि जगन्मातः सच्चिदानंदविग्रहे |
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि || ७ ||
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु में देवि त्वत्प्रसादात्सुरेश्वरि || ८ ||
उद्वासन ( विसर्जन )