Saturday, June 6, 2026

॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥

 हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 

स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ 

पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥

 एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥

 त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

 ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥

 ततो विराडजायत विराजो अधि पूरुषः ।

 स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥ 

तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । 

पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥

 तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।

 छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥ 

तस्मादश्वा अजायन्त ये के चोभयादतः ।

 गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । 

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥

 यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 

मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥ 

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । 

ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥ 

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

 श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥

 नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।

 पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥

 यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥ 

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

 देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥

 यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥ ॥

 इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम्॥