Saturday, June 6, 2026

 हनूमद्भुजङ्गस्तोत्रम्

 उदरान्तरङ्गं सदारामभक्तं
 समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् ।
 अमोघानुभावं तमोघातदक्षं
 तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥

 करोद्भासिटङ्कं किरीटिध्वजाङ्कं
हृताशेषपङ्कं रणेनिर्विशङ्कम् ।
 त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं
 भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥


 प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं)
 जगत्क्षेमशौर्यं तुषारादिदैत्यम् ।
 (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्)
तृणीभूतहेतिं रणोद्यद्विभूतिं
 भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥


 रणे भीषणे मेघनादे सनाथे
 सरोषं समारोप्य सौमित्रिमान्ये ।
घनानां घनानां सुराणाञ्चमार्गे
 नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥


 समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां
 विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः ।
 निरातङ्कमानी च लङ्कां विशङ्को
 भवानेव सीतारिहा पापहारी ॥ ५॥

 नमस्ते महासत्त्ववाहाय तुभ्यं
 नमस्ते महावज्रदेहाय तुभ्यम् ।
 नमस्ते कृता रामकार्याय तुभ्यं
 नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥


 हनूमद्भुजङ्गप्रयातं प्रभाते
 प्रदोषे दिवा चार्धरात्रे च मर्त्यः ।
 पठन् देशिकोऽपीह मुक्तान्तराय-
 स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥


 इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ।