मैं थाने सिवरू गजानन देवा

  मैं थाने सिवरू गजानन देवा   वचनों रा पालनहारा जी ओ,  सरस्वती मात शारदा ने सिवरू  हिरदे करो नी उजियाला जी ओनिन्दरा निवारू भोलेनाथ ने निन्दर...

Showing posts with label Mantra. Show all posts
Showing posts with label Mantra. Show all posts

Tuesday, June 9, 2026

नवग्रहपीडाहरस्तोत्रम्

 ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
 विषमस्थानसंभूतां पीडां हरतु मे रविः ॥ १॥


 रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
 विषमस्थानसंभूतां पीडां हरतु मे विधुः ॥ २॥


 भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।
 वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ ३॥

 उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
 सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ ४॥


 देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
 अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥ ५॥


 दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
 प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥ ६॥

 सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
 मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥ ७॥


 महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
 अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे तमः ॥ ८॥

 अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
 उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥ ९॥


॥ इति नवग्रहपीडाहरस्तोत्रं सम्पूर्णम् ॥ 

 केतुस्तोत्रम्

 अथ केतुस्तोत्रप्रारम्भः ।

 ॐ अस्य श्रीकेतुस्तोत्रमहामन्त्रस्य
वामदेव ॠषिः ।
 अनुष्टुप्छन्दः ।
 केतुर्देवता ।
 केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

 गौतम उवाच ।


 मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
 सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥


 सूत उवाच ।

 श‍ृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
 गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २॥


 आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
 तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥


 पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
 सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४॥


 नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
 एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥


 द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
 पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥


 नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
 पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥


 कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
 पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८॥


 नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
 केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥

 स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
 ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥


 केतोः करालवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।
 कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥


 दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
 वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥


 मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
 तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥



 इति केतुस्तोत्रं सम्पूर्णम् । 

आदित्यस्तोत्रम्

आदित्यस्तोत्रम्
 श्रीगणेशाय नमः ।


 नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् ।
 पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥


 पीडानाशाय राजेन्द्र नामानि श‍ृणु भास्वतः ।
 सूर्यादीनां च सर्वेषां पीडा नश्यति श‍ृण्वतः ॥ २॥


 आदित्य सविता सूर्यः पूषार्कः शीघ्रगो रविः ।
 भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः ॥ ३॥

 दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।
 विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥


 हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः ।
 पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५॥

 द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।
 जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६॥


 भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः ।
 सङ्काशो भास्वानदितिनन्दनः ॥ ७॥


 ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।
 मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८॥


 जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः ।
 सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९॥

 विवस्वानादिदेवश्च देवदेवो दिवाकरः ।
 धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥ १०॥


 चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।
 कोकशोकापहर्ता च कमलाकर आत्मभूः ॥ ११॥


 नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।
 जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२॥


 इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः ।
 श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३॥

 शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः ।
 सर्वदेवमयो देवः कृष्णः कायप्रदायकः ॥ १४॥


 य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् ।
 सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५॥


 पुत्रवान् धनवान् श्रीमाञ्जायते स न संशयः ।
 रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६॥


 पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः ।
 सद्यः सुखमवाप्नोति चायुर्दीर्घं च नीरुजम् ॥ १७॥


 इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् । 

गायत्री मन्त्रो का संकलन

 ॥  देवी- देवताओं के
गायत्री मन्त्रो का संकलन ॥


 1 गणेश
 ॐ एकदन्ताय विद्महे, वक्रतुण्डाय धीमहि ।
 तन्नो दन्ती प्रचोदयात् ॥

 2 गणेश
 ॐ तत्पुरुषाय विद्महे, वक्रतुण्डाय धीमहि ।
 तन्नो दन्ती प्रचोदयात् ॥

 3.गणेश
 ॐ तत्कराटाय विद्महे हस्तिमुखाय धीमहि ।
 तन्नो दन्ती प्रचोदयात् ॥

 4 गणेश
 ॐ लम्बोदराय विद्महे महोदराय धीमहि ।
 तन्नो दन्तिः प्रचोदयात् ॥


 5 ब्रह्मा
 ॐ वेदात्मने विद्महे, हिरण्यगर्भाय धीमहि ।
 तन्नो ब्रह्म प्रचोदयात् ।।

Sunday, June 7, 2026

शिवाष्टकं

 ॥ अथ श्री शिवाष्टकम् ॥

 प्रभुं प्राणनाथं विभुं विश्वनाथं 

जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं

 महाकालकालं गणेशाधिपालम् ।
 जटाजूटगङ्गोत्तरङ्गैर्विशालं

 शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

 मुदामाकरं मण्डनं मण्डयन्तं

 महामण्डलं भस्मभूषाधरं तम् ।
 अनादिह्यपारं महामोहहारं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

 वटाधोनिवासं महाट्टाट्टहासं 

महापापनाशं सदासुप्रकाशम् ।
 गिरीशं गणेशं महेशं सुरेशं

 शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

 गिरिन्द्रात्मजासंग्रहीतार्धदेहं 

गिरौ संस्थितं सर्वदा सन्नगेहम् ।
 परब्रह्मब्रह्मादिभिर्वन्ध्यमानं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

 कपालं त्रिशूलं कराभ्यां दधानं 

पदाम्भोजनम्राय कामं ददानम् ।
 बलीवर्दयानं सुराणां प्रधानं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

 शरच्चन्द्रगात्रं गुणानन्द पात्रं

 त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
 अपर्णाकलत्रं चरित्रं विचित्रं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

 हरं सर्पहारं चिता भूविहारं 

भवं वेदसारं सदा निर्विकारम् ।
 श्मशाने वसन्तं मनोजं दहन्तं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

 स्तवं यः प्रभाते नरः शूलपाणे 

पठेत् सर्वदा भर्गभावानुरक्तः ।
 स पुत्रं धनं धान्यमित्रं कलत्रं 

विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९॥

 ॥ इति शिवाष्टकं सम्पूर्णम् ॥   

नमामीशमीशान निर्वाण रूपं

,
 नमामीशमीशान निर्वाण रूपं
विभुं व्यापकं ब्रह्म वेदः स्वरूपम्‌ ।
निजं निर्गुणं निर्विकल्पं निरीहं,
चिदाकाश माकाशवासं भजेऽहम्‌ ।।

 निराकार मोंकार मूलं तुरीयं,
गिराज्ञान गोतीतमीशं गिरीशम्‌ ।
 करालं महाकाल कालं कृपालुं,
गुणागार संसार पारं नतोऽहम्‌ ।।

 तुषाराद्रि संकाश गौरं गभीरं,
मनोभूत कोटि प्रभा श्री शरीरम्‌ ।
 स्फुरन्मौलि कल्लोलिनी चारू गंगा,
लसद्भाल बालेन्दु कण्ठे भुजंगा ।।

 चलत्कुण्डलं शुभ्र नेत्रं विशालं,
प्रसन्नाननं नीलकण्ठं दयालम्‌ ।
 मृगाधीश चर्माम्बरं मुण्डमालं,
प्रिय शंकरं सर्वनाथं भजामि ।।

 प्रचण्डं प्रकष्टं प्रगल्भं परेशं,
अखण्डं अजं भानु कोटि प्रकाशम्‌ ।
त्रयशूल निर्मूलनं शूल पाणिं,
भजेऽहं भवानीपतिं भाव गम्यम्‌ ।।

 कलातीत कल्याण कल्पान्तकारी,
सदा सच्चिनान्द दाता पुरारी ।
 चिदानन्द सन्दोह मोहापहारी,
प्रसीद प्रसीद प्रभो मन्मथारी ।।

 न यावद् उमानाथ पादारविन्दं,
भजन्तीह लोके परे वा नराणाम्‌ ।
 न तावद् सुखं शांति सन्ताप नाशं,
 प्रसीद प्रभो सर्वं भूताधि वासं ।।

 न जानामि योगं जपं नैव पूजा,
 न तोऽहम्‌ सदा सर्वदा शम्भू तुभ्यम्‌ ।
 जरा जन्म दुःखौघ तातप्यमानं,
प्रभोपाहि आपन्नामामीश शम्भो ।।

 रूद्राष्टकं इदं प्रोक्तं विप्रेण हर्षोतये
 ये पठन्ति नरा भक्तयां तेषां शंभो प्रसीदति ।।

 इति श्रीगोस्वामितुलसीदासकृतं
श्रीरुद्राष्टकं सम्पूर्णम् 

शिव तांडव स्त्रोतम

  शिव तांडव स्त्रोतम

 जटाटवीगलज्जल प्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌।
 डमड्डमड्डमड्डमनिनादवड्डमर्वयं
चकार चंडतांडवं तनोतु नः शिवः शिवम ॥१॥

 जटा कटा हसंभ्रम भ्रमन्निलिंपनिर्झरी
 विलोलवी चिवल्लरी विराजमानमूर्धनि।
 धगद्धगद्ध गज्ज्वलल्ललाट पट्टपावके
 किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥२॥

 धरा धरेंद्र नंदिनी विलास बंधुवंधुर
 स्फुरदृगंत संतति प्रमोद मानमानसे।
 कृपाकटा क्षधारणी निरुद्धदुर्धरापदि
कवचिद्विगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥

 जटा भुजं गपिंगल स्फुरत्फणामणिप्रभा
कदंबकुंकुम द्रवप्रलिप्त दिग्वधूमुखे।
 मदांध सिंधु रस्फुरत्वगुत्तरीयमेदुरे
मनो विनोदद्भुतं बिंभर्तु भूतभर्तरि ॥४॥


 सहस्र लोचन प्रभृत्य शेषलेखशेखर
 प्रसून धूलिधोरणी विधूसरांघ्रिपीठभूः।
 भुजंगराज मालया निबद्धजाटजूटकः
श्रिये चिराय जायतां चकोर बंधुशेखरः ॥५॥

 ललाट चत्वरज्वलद्धनंजयस्फुरिगभा
निपीतपंचसायकं निमन्निलिंपनायम्‌।
 सुधा मयुख लेखया विराजमानशेखरं
महा कपालि संपदे शिरोजयालमस्तू नः ॥६
॥

 कराल भाल पट्टिकाधगद्धगद्धगज्ज्वल
द्धनंजयाधरीकृतप्रचंडपंचसायके।
 धराधरेंद्र नंदिनी कुचाग्रचित्रपत्रक
प्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ॥७॥

 नवीन मेघ मंडली निरुद्धदुर्धरस्फुर
त्कुहु निशीथिनीतमः प्रबंधबंधुकंधरः।
 निलिम्पनिर्झरि धरस्तनोतु कृत्ति सिंधुरः
कलानिधानबंधुरः श्रियं जगंद्धुरंधरः ॥८॥


 प्रफुल्ल नील पंकज प्रपंचकालिमच्छटा
विडंबि कंठकंध रारुचि प्रबंधकंधरम्‌।
 स्मरच्छिदं पुरच्छिंद भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमंतकच्छिदं भजे ॥९॥

 अगर्वसर्वमंगला कलाकदम्बमंजरी
रसप्रवाह माधुरी विजृंभणा मधुव्रतम्‌।
 स्मरांतकं पुरातकं भावंतकं मखांतकं
 गजांतकांधकांतकं तमंतकांतकं भजे ॥१०॥


 जयत्वदभ्रविभ्रम भ्रमद्भुजंगमस्फुर
 द्धगद्धगद्वि निर्गमत्कराल भाल हव्यवाट्
 धिमिद्धिमिद्धिमि नन्मृदंगतुंगमंगल
ध्वनिक्रमप्रवर्तित प्रचण्ड ताण्डवः शिवः ॥११॥

 दृषद्विचित्रतल्पयोर्भुजंग मौक्तिकमस्रजो
 र्गरिष्ठरत्नलोष्टयोः सुहृद्विपक्षपक्षयोः।
 तृणारविंदचक्षुषोः प्रजामहीमहेन्द्रयोः
समं प्रवर्तयन्मनः कदा सदाशिवं भजे ॥१२॥


 कदा निलिंपनिर्झरी निकुजकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरःस्थमंजलिं वहन्‌।
 विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌कदा सुखी भवाम्यहम्‌ ॥१३॥

 निलिम्प नाथनागरी कदम्ब मौलमल्लिका
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः।
 तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदंगजत्विषां चयः ॥१४॥


 प्रचण्ड वाडवानल प्रभाशुभप्रचारणी
महाष्टसिद्धिकामिनी जनावहूत जल्पना।
 विमुक्त वाम लोचनो विवाहकालिकध्वनिः
शिवेति मन्त्रभूषगो जगज्जयाय जायताम्‌ ॥१५॥

 इमं हि नित्यमेव मुक्तमुक्तमोत्तम स्तवं
पठन्स्मरन्‌ ब्रुवन्नरो विशुद्धमेति संततम्‌।
 हरे गुरौ सुभक्तिमाशु याति नांयथा गतिं
विमोहनं हि देहना तु शंकरस्य चिंतनम ॥१६॥


 पूजाऽवसानसमये दशवक्रत्रगीतं
यः शम्भूपूजनमिदं पठति प्रदोषे।
 तस्य स्थिरां रथगजेंद्रतुरंगयुक्तां
लक्ष्मी सदैव सुमुखीं प्रददाति शम्भुः ॥१७॥

Saturday, June 6, 2026

शुक्लयजुर्वेदीय पुरुषसूक्तः

॥ अथ शुक्लयजुर्वेदीय पुरुषसूक्तः॥

 हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 

स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥ 

पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥

 एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥

 त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

 ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥

 ततो विराडजायत विराजो अधि पूरुषः ।

 स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥ 

तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । 

पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥

 तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।

 छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥ 

तस्मादश्वा अजायन्त ये के चोभयादतः ।

 गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । 

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥

 यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 

मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥ 

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । 

ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥ 

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

 श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥

 नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।

 पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥

 यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥ 

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

 देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥

 यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥ ॥

 इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम्॥

हनूमद्भुजङ्गस्तोत्रम्

 हनूमद्भुजङ्गस्तोत्रम्

 उदरान्तरङ्गं सदारामभक्तं
 समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् ।
 अमोघानुभावं तमोघातदक्षं
 तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥

 करोद्भासिटङ्कं किरीटिध्वजाङ्कं
हृताशेषपङ्कं रणेनिर्विशङ्कम् ।
 त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं
 भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥


 प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं)
 जगत्क्षेमशौर्यं तुषारादिदैत्यम् ।
 (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्)
तृणीभूतहेतिं रणोद्यद्विभूतिं
 भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥


 रणे भीषणे मेघनादे सनाथे
 सरोषं समारोप्य सौमित्रिमान्ये ।
घनानां घनानां सुराणाञ्चमार्गे
 नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥


 समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां
 विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः ।
 निरातङ्कमानी च लङ्कां विशङ्को
 भवानेव सीतारिहा पापहारी ॥ ५॥

 नमस्ते महासत्त्ववाहाय तुभ्यं
 नमस्ते महावज्रदेहाय तुभ्यम् ।
 नमस्ते कृता रामकार्याय तुभ्यं
 नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥


 हनूमद्भुजङ्गप्रयातं प्रभाते
 प्रदोषे दिवा चार्धरात्रे च मर्त्यः ।
 पठन् देशिकोऽपीह मुक्तान्तराय-
 स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥


 इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ।

अपराधक्षमापणस्तोत्रम्

अपराधक्षमापणस्तोत्रम्

 ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
 यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥

 सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
 इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥

 अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
 तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥

 कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
 गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥

 सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
 अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥

 यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।
 पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥

 यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् ।
 तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् ॥ ७॥

 यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब ।

 मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥

 प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।
 प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥ ॥
इति अपराधक्षमापणस्तोत्रं समाप्तम्॥      

श्रीशिवषडक्षरस्तोत्रम्

 श्रीशिवषडक्षरस्तोत्रम्


 ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥

 नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
 नरा नमंति देवेशं नकाराय नमो नमः ॥ २॥

 महादेवं महात्मानं महाध्यानं परायणम् ।
 महापापहरं देवं मकाराय नमो नमः ॥ ३॥

 शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
 शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४॥

 वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं वेदं वकाराय नमो नमः ॥ ५॥

 यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
 यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६॥

 षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७॥ ॥

 इति श्री रुद्रयामले उमामहेश्वरसंवादे
षडक्षरस्तोत्रं सम्पूर्णम् ॥ 

श्रीराम ताण्डव स्तोत्रम्

 श्रीराम ताण्डव स्तोत्रम्
 इन्द्रादयो ऊचुः -

 जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेः
 अपाङ्गक्रुद्धदर्शनोपहार चूर्णकुन्तलः ।
 प्रचण्डवेगकारणेन पिञ्जलः प्रतिग्रहः
 स क्रुद्धताण्डवस्वरूपधृग्विराजते हरिः ॥ १॥

 अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनः
 तथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः ।
 प्रचण्डदानवानलं समुद्रतुल्यनाशकाः
 नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥ २॥

 कलेवरे कषायवासहस्तकार्मुकं हरेः
 उपासनोपसङ्गमार्थधृग्विशाखमण्डलम् ।
 हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकं
 विदार्यते प्रचण्डताण्डवाकृतिः स राघवः ॥ ३॥

 प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणं
 कुकूटकूटकूटकौणपात्मजाभिमर्दनम् ।
 तथागुणङ्गुणङ्गुणङ्गुणङ्गुणेन दर्शयन्
 कृपीटकेशलङ्घ्यमीशमेकराघवं भजे ॥ ४॥


 सवानरान्वितः तथाप्लुतं शरीरमसृजा
 विरोधिमेदसाग्रमांसगुल्मकालखण्डनैः ।
 महासिपाशशक्तिदण्डधारकैः निशाचरैः
 परिप्लुतं कृतं शवैश्च येन भूमिमण्डलम् ॥ ५॥

 विशालदंष्ट्रकुम्भकर्णमेघरावकारकैः
 तथाहिरावणाद्यकम्पनातिकायजित्वरैः ।
 सुरक्षितां मनोरमां सुवर्णलङ्कनागरीं
 निजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः ॥ ६॥

 प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणैः
 विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः ।
 पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदनं
 सुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥ ७॥

 करालकालरूपिणं महोग्रचापधारिणं
 कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम् ।
 विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकं
 भजामिजित्वरं तथोर्मिलापतेः प्रियाग्रजम् ॥ ८॥


 इतस्ततः मुहुर्मुहुः परिभ्रमन्ति कौन्तिकाः
 अनुप्लवप्रवाहप्रासिकाश्च वैजयन्तिकाः ।
 मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां
 अभिक्रमेण राघवस्य ताण्डवाकृतेः गताः ॥ ९॥

 निराकृतिं निरामयं तथादिसृष्टिकारणं
महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम् ।
 निरङ्कुशं निजात्मभक्तजन्ममृत्युनाशकं
 अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥ १०॥


 करालपालिचक्रशूलतीक्ष्णभिन्दिपालकैः
 कुठारसर्वलासिधेनुकेलिशल्यमुद्गरैः ।
 सुपुष्करेण पुष्कराञ्च पुष्करास्त्रमारणैः
 सदाप्लुतं निशाचरैः सुपुष्करञ्च पुष्करम् ॥ ११॥

 प्रपन्नभक्तरक्षकं वसुन्धरात्मजाप्रियं
 कपीशवृन्दसेवितं समस्तदूषणापहम् ।
 सुरासुराभिवन्दितं निशाचरान्तकं विभुं
 जगत्प्रशस्तिकारणं भजेह राममीश्वरम् ॥ १२॥

 इति श्रीभागवतानन्दगुरुणा विरचिते
 श्रीराघवेन्द्रचरिते इन्द्रादि देवगणैः
 कृतं श्रीरामताण्डवस्तोत्रं सम्पूर्णम् ।

श्रीधनलक्ष्मीस्तोत्रम्

 श्रीधनलक्ष्मीस्तोत्रम्
 श्रीधनदा उवाच-
 देवी देवमुपागम्य नीलकण्ठं मम प्रियम्
 कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥

 श्रीदेव्युवाच-
 ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
 दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥

 श्रीशिव उवाच-
 पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
 उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥

 ससीतं सानुजं रामं साञ्जनेयं सहानुगम् ।
 प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ ४॥

 धनदं श्रद्दधानानां सद्यः सुलभकारकम् ।
 योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥ ५॥

 पठन्तः पाठयन्तोऽपि ब्राह्मणैरास्तिकोत्तमैः ।
 धनलाभो भवेदाशु नाशमेति दरिद्रता ॥ ६॥

 भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् ।
 प्रार्थयेत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥ ७॥

धर्मदे धनदे देवि दानशीले दयाकरे ।
 त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥ ८॥

धरामरप्रिये पुण्ये धन्ये धनदपूजिते ।
 सुधनं धार्मिकं देहि यजमानाय सत्वरम् ॥ ९॥

 (यजनाय सुसत्वरम्) रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
 शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥ १०॥
(शशिप्रभमनोमूर्ते) आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके ।
 (सिद्धसर्वाङ्गभूषिते) दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ॥ ११॥

 समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
 (अधिकपाठ. जातरूपमणीन्द्वादि-भूषिते भूमिभूषिते ।)
 शरच्चन्द्रमुखे नीले नील-नीरज-लोचने ॥ १२॥

 चञ्चरीकचमू-चारु-श्रीहार-कुटिलालके ।
 मत्ते भगवति मातः कलकण्ठरवामृते ॥ १३॥

 (मुखामृते) हासावलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
 रूप-लावण्य-तारूण्य-कारूण्य-गुणभाजने ॥ १४॥

 क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे ।
 रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥ १५॥

 प्रयच्छ यजमानाय धनं धर्मैकसाधनम् ।
 मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥ १६॥

 (मातर्मे मावि) कृपया करुणागारे प्रार्थितं कुरु मे शुभे ।
 वसुधे वसुधारूपे वसु-वासव-वन्दिते ॥ १७॥

 धनदे यजमानाय वरदे वरदा भव ।
 (यजनायैव) ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशङ्करे ॥ १८॥

 (ब्रह्मण्ये ब्राह्मणे) स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
 श्रीकरे शङ्करे श्रीदे प्रसीद मयि किङ्करे ॥ १९॥

 पार्वतीशप्रसादेन सुरेश-किङ्करेरितम् ।
 श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥ २०॥

 सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
 धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
 भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥ २१॥
 ॥ इति श्रीधनलक्ष्मीस्तोत्रं अथवा धनेश्वरी सम्पूर्णम् ॥ 

श्री अङ्गारकस्तोत्रस्य

 अस्य श्री अङ्गारकस्तोत्रस्य

विरूपाङ्गिरस ऋषिः ।
 अग्निर्देवता ।
 गायत्री छन्दः ।

 भौमप्रीत्यर्थं जपे विनियोगः

 अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।
 कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥

 ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः ।
 विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥

 सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।
 लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥

 रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।
 नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥

 ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।
 धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥

 वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ।
 योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥

 सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥
 ॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥

परमशिवाक्षरमालिकास्तोत्रम्

 शिववर्णमाला
अथवा
परमशिवाक्षरमालिकास्तोत्रम्
 ध्रुवपद।
 हर साम्बसदाशिव साम्बसदाशिव
 साम्बसदाशिव साम्बशिव ॥


 अद्भुतविग्रह अमराधीश्वर
अगणितगुणगण अमृतशिव ।
 साम्बसदाशिव साम्बसदाशिव
 साम्बसदाशिव साम्बशिव ॥ १

 आनन्दामृत आश्रितरक्षक आत्मानन्द महेश शिव ।
 इन्दुकलाधर इन्द्रादिप्रिय सुन्दररूप सुरेश शिव ।
 ईश सुरेश महेश जनप्रिय केशवसेवितपाद शिव ।
 उरगादिप्रियभूषण शङ्कर नरकविनाश नटेश शिव ।
 ऊर्जितदानवनाश परात्पर आर्जितपापविनाश शिव ।
 ऋग्वेदश्रुतिमौलिविभूषणरविचन्द्राग्नि त्रिनेत्र शिव ।
 ॠप मनादि प्रपञ्च विलक्षण तापनिवारणतत्त्व शिव ।
 ऌङ्गस्वरूप सर्वबुधप्रिय मङ्गलमूर्ति महेश शिव ।
 ॡऊताधीश्वररूपप्रिय शिव वेदान्तप्रियवेद्य शिव । १०

 एकानेक स्वरूप विश्वेश्वर योगिहृदिप्रियवास शिव ।
 ऐश्वर्याश्रय चिन्मय चिद्घन अच्युतानन्त महेश शिव ।
 ओंकारप्रिय उरगविभूषण ह्रींकारादि महेश शिव ।
 औरसलालित अन्तकनाशन गौरीसमेत महेश शिव ।
 अम्बरवास चिदम्बरनायक तुम्बुरुनारदसेव्य शिव ।
 आहारप्रिय आदिगिरीश्वर भोगादिप्रिय पूर्ण शिव ।
 कमलास्यार्चित कैलासप्रिय करुणासागर काशि शिव ।
 खड्गशैलमृदुढक्काद्यायुध विक्रमरूप विश्वेश शिव ।
 गङ्गागिरिसुतवल्लभ गुणहित शङ्कर सर्वजनेश शिव ।
 घातुकभञ्जन पातकनाशन गौरीसमेत गिरीश शिव । २०

 ङङश्रितश्रुतिमौलिविभूषण वेदस्वरूप विश्वेश शिव ।
 चण्डविनाशन सकलजनप्रिय मण्डलाधीश महेश शिव ।
 छत्रकिरीटसुकुण्डलशोभित पुत्रप्रिय भुवनेश शिव ।
 जन्मजरामृतिनाशन कल्मषरहित तापविनाश शिव ।
 झङ्काराश्रय भृङ्गिरिटिप्रिय ओंकारेश महेश शिव ।
 ज्ञानाज्ञानविनाशक निर्मल दीनजनप्रिय दीप्त शिव ।
 टङ्काद्यायुधधारण सत्वर ह्रींकारैद्य सुरेश शिव ।
 ठंकस्वरूप सहकारोत्तम वागीश्वर वरदेश शिव ।
 डम्बविनाशन डिंडिमभूषण अम्बरवास चिदीश शिव ।
 ढंढंडमरुक धरणीनिश्चल ढुंढिविनायकसेव्य शिव । ३०


 णलिनविलोचन नटनमनोहर अलिकुलभूषण अमृत शिव ।
 तत्त्वमसीत्यादि वाक्यस्वरूपक नित्यानन्द महेश शिव ।
 स्थावर जङ्गम भुवनविलक्षण भावुकमुनिवर सेव्य शिव ।
 दुःखविनाशक दलितमनोन्मन चन्दनलेपित चरण शिव ।
 धरणीधर शुभ धवलविभास्वर धनदादिप्रिय दान शिव ।
 नानामणिगणभूषण निर्गुण नटजनसुप्रियनाट्य शिव ।
 पन्नगभूषण पार्वतिनायक परमानन्द परेश शिव ।
 फालविलोचन भानुकोटिप्रभ हालाहलधर अमृत शिव ।
 बन्धविनाशन बृहदीशामरस्कन्दादिप्रिय कनक शिव ।
 भस्मविलोपन भवभयनाशन विस्मयरूप विश्वेस शिव । ४०

 मन्मथनाशन मधुपान प्रिय मन्दरपर्वतवास शिव ।
 यतिजनहृदयनिवासित ईश्वर विधिविष्ण्यादि सुरेश शिव ।
 रामेश्वररमणीयमुखाम्बुज सोमशेखर सुकृति शिव ।
 लङ्काधीश्वर सुरगणसेवित लावण्यामृतलसित शिव ।
 वरदाभयकर वासुकिभूषण वनमालादिविभूष शिव ।
 शान्तिस्वरूप जगत्त्रय चिन्मय कान्तिमतीप्रिय कनक शिव ।
 षण्मुखजनक सुरेन्द्रमुनिप्रिय षाड्गुण्यादिसमेत शिव ।
 संसारार्णव नाशन शाश्वत साधुहृदिप्रियवास शिव ।
 हर पुरुषोत्तम अद्वैतामृतपूर्ण मुरारि सुसेव्य शिव ।
 लालितभक्तजनेश निजेश्वर कां नटेश्वर काम शिव । ५०


 क्षररूपादिप्रियान्वित सुन्दर साक्षि जगत्त्रय स्वामि शिव ।
 साम्बसदाशिव साम्बसदाशिव साम्बसदाशिव साम्बशिव ॥ ५१
 इति श्रीशिववर्णमालास्तोत्रम् ।
श्रीपरमेश्वरमातृकावर्णमालास्तोत्रम्  

हनुमान साठिका

 तुलसीदासरचित हनुमान साठिका

 जय जय जय हनुमान अडंगी ।
 महावीर विक्रम बजरंगी ॥

 जय कपीश जय पवन कुमारा ।
 जय जगबन्दन सील अगारा ॥

 जय आदित्य अमर अबिकारी ।
 अरि मरदन जय-जय गिरधारी ॥

 अंजनि उदर जन्म तुम लीन्हा ।
 जय-जयकार देवतन कीन्हा ॥

 बाजे दुन्दुभि गगन गम्भीरा ।
 सुर मन हर्ष असुर मन पीरा ॥

 कपि के डर गढ़ लंक सकानी ।
 छूटे बंध देवतन जानी ॥

 ऋषि समूह निकट चलि आये ।
 पवन तनय के पद सिर नाये ॥

 बार-बार अस्तुति करि नाना ।
 निर्मल नाम धरा हनुमाना ॥

 सकल ऋषिन मिलि अस मत ठाना ।
 दीन्ह बताय लाल फल खाना ॥

 सुनत बचन कपि मन हर्षाना ।
 रवि रथ उदय लाल फल जाना ॥

 रथ समेत कपि कीन्ह अहारा ।
 सूर्य बिना भए अति अंधियारा ॥

 विनय तुम्हार करै अकुलाना ।
 तब कपीस की अस्तुति ठाना ॥

 सकल लोक वृतान्त सुनावा ।
 चतुरानन तब रवि उगिलावा ॥

 कहा बहोरि सुनहु बलसीला ।
 रामचन्द्र करिहैं बहु लीला ॥

 तब तुम उन्हकर करेहू सहाई ।
 अबहिं बसहु कानन में जाई ॥

 असकहि विधि निजलोक सिधारा ।
 मिले सखा संग पवन कुमारा ॥

 खेलैं खेल महा तरु तोरैं ।
 ढेर करैं बहु पर्वत फोरैं ॥

 जेहि गिरि चरण देहि कपि धाई ।
 गिरि समेत पातालहिं जाई ॥

 कपि सुग्रीव बालि की त्रासा ।
 निरखति रहे राम मगु आसा ॥

 मिले राम तहं पवन कुमारा ।
 अति आनन्द सप्रेम दुलारा ॥

 मनि मुंदरी रघुपति सों पाई ।
 सीता खोज चले सिरु नाई ॥

 सतयोजन जलनिधि विस्तारा ।
 अगम अपार देवतन हारा ॥

 जिमि सर गोखुर सरिस कपीसा ।
 लांघि गये कपि कहि जगदीशा ॥

 सीता चरण सीस तिन्ह नाये ।
 अजर अमर के आसिस पाये ॥

 रहे दनुज उपवन रखवारी ।
 एक से एक महाभट भारी ॥

 तिन्हैं मारि पुनि कहेउ कपीसा ।
 दहेउ लंक कोप्यो भुज बीसा ॥

 सिया बोध दै पुनि फिर आये ।
 रामचन्द्र के पद सिर नाये।

 मेरु उपारि आप छिन माहीं ।
 बांधे सेतु निमिष इक मांहीं ॥

 लछमन शक्ति लागी उर जबहीं ।
 राम बुलाय कहा पुनि तबहीं ॥

 भवन समेत सुषेन लै आये ।
 तुरत सजीवन को पुनि धाये ॥

 मग महं कालनेमि कहं मारा ।
 अमित सुभट निसिचर संहारा ॥

 आनि संजीवन गिरि समेता ।
 धरि दीन्हों जहं कृपा निकेता ॥

 फनपति केर सोक हरि लीन्हा ।
 वर्षि सुमन सुर जय जय कीन्हा ॥

 अहिरावण हरि अनुज समेता ।
 लै गयो तहां पाताल निकेता ॥

 जहां रहे देवि अस्थाना ।
 दीन चहै बलि काढ़ि कृपाना ॥

 पवनतनय प्रभु कीन गुहारी ।
 कटक समेत निसाचर मारी ॥

 रीछ कीसपति सबै बहोरी ।
 राम लषन कीने यक ठोरी ॥

 सब देवतन की बन्दि छुड़ाये ।
 सो कीरति मुनि नारद गाये ॥

 अछयकुमार दनुज बलवाना ।
 कालकेतु कहं सब जग जाना ॥

 कुम्भकरण रावण का भाई ।
 ताहि निपात कीन्ह कपिराई ॥

 मेघनाद पर शक्ति मारा ।
 पवन तनय तब सो बरियारा ॥

 रहा तनय नारान्तक जाना ।
 पल में हते ताहि हनुमाना ॥

 जहं लगि भान दनुज कर पावा ।
 पवन तनय सब मारि नसावा।

 जय मारुत सुत जय अनुकूला ।
 नाम कृसानु सोक सम तूला ॥

 जहं जीवन के संकट होई ।
 रवि तम सम सो संकट खोई ॥

 बन्दि परै सुमिरै हनुमाना ।
 संकट कटै धरै जो ध्याना ॥

 जाको बांध बामपद दीन्हा ।
 मारुत सुत व्याकुल बहु कीन्हा ॥

 सो भुजबल का कीन कृपाला ।
 अच्छत तुम्हें मोर यह हाला ॥

 आरत हरन नाम हनुमाना ।
 सादर सुरपति कीन बखाना ॥

 संकट रहै न एक रती को ।
 ध्यान धरै हनुमान जती को ॥

 धावहु देखि दीनता मोरी ।
 कहौं पवनसुत जुगकर जोरी ॥

 कपिपति बेगि अनुग्रह करहु ।
 आतुर आइ दुसै दुख हरहु ॥

 राम सपथ मैं तुमहिं सुनाया ।
 जवन गुहार लाग सिय जाया ॥

 यश तुम्हार सकल जग जाना ।
 भव बन्धन भंजन हनुमाना ॥

 यह बन्धन कर केतिक बाता ।
 नाम तुम्हार जगत सुखदाता ॥

 करौ कृपा जय जय जग स्वामी ।
 बार अनेक नमामि नमामी ॥

 भौमवार कर होम विधाना ।
 धूप दीप नैवेद्य सुजाना ॥

 मंगल दायक को लौ लावे ।
 सुन नर मुनि वांछित फल पावे ॥

 जयति जयति जय जय जग स्वामी ।
 समरथ पुरुष सुअन्तरजामी ॥

 अंजनि तनय नाम हनुमाना ।
 सो तुलसी के प्राण समाना ॥

 । दोहा ।
जय कपीस सुग्रीव तुम, जय अंगद हनुमान ॥
 राम लषन सीता सहित, सदा करो कल्याण ॥

बन्दौं हनुमत नाम यह, भौमवार परमान ॥
ध्यान धरै नर निश्चय, पावै पद कल्याण ॥

 जो नित पढ़ै यह साठिका, तुलसी कहैं बिचारि ।
 रहै न संकट ताहि को, साक्षी हैं त्रिपुरारि ।
सवैया ।
आरत बन पुकारत हौं कपिनाथ
 सुनो विनती मम भारी ।
 अंगद औ नल-नील महाबलि देव
 सदा बल की बलिहारी ॥
 जाम्बवन्त् सुग्रीव पवन-सुत
 दिबिद मयंद महा भटभारी ।
 दुःख दोष हरो तुलसी जन-को
 श्री द्वादश बीरन की बलिहारी ॥
गोस्वामीतुलसीदासरचित हनुमान साठिका