Saturday, June 6, 2026

अपराधक्षमापणस्तोत्रम्

 ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
 यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥

 सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
 इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥

 अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
 तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥

 कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
 गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥

 सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।
 अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५॥

 यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।
 पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६॥

 यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् ।
 तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्व सदैव जायताम् ॥ ७॥

 यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब ।

 मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८॥

 प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले ।
 प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते ॥ ९॥ ॥
इति अपराधक्षमापणस्तोत्रं समाप्तम्॥