←Back

Saturday, June 6, 2026


     श्रीशिवषडक्षरस्तोत्रम्


 ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥

 नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः ।
 नरा नमंति देवेशं नकाराय नमो नमः ॥ २॥

 महादेवं महात्मानं महाध्यानं परायणम् ।
 महापापहरं देवं मकाराय नमो नमः ॥ ३॥

 शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
 शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४॥

 वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं वेदं वकाराय नमो नमः ॥ ५॥

 यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
 यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६॥

 षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७॥ ॥

 इति श्री रुद्रयामले उमामहेश्वरसंवादे

षडक्षरस्तोत्रं सम्पूर्णम् ॥