Saturday, June 6, 2026

 श्रीराम ताण्डव स्तोत्रम्
 इन्द्रादयो ऊचुः -

 जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेः
 अपाङ्गक्रुद्धदर्शनोपहार चूर्णकुन्तलः ।
 प्रचण्डवेगकारणेन पिञ्जलः प्रतिग्रहः
 स क्रुद्धताण्डवस्वरूपधृग्विराजते हरिः ॥ १॥

 अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनः
 तथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः ।
 प्रचण्डदानवानलं समुद्रतुल्यनाशकाः
 नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥ २॥

 कलेवरे कषायवासहस्तकार्मुकं हरेः
 उपासनोपसङ्गमार्थधृग्विशाखमण्डलम् ।
 हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकं
 विदार्यते प्रचण्डताण्डवाकृतिः स राघवः ॥ ३॥

 प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणं
 कुकूटकूटकूटकौणपात्मजाभिमर्दनम् ।
 तथागुणङ्गुणङ्गुणङ्गुणङ्गुणेन दर्शयन्
 कृपीटकेशलङ्घ्यमीशमेकराघवं भजे ॥ ४॥


 सवानरान्वितः तथाप्लुतं शरीरमसृजा
 विरोधिमेदसाग्रमांसगुल्मकालखण्डनैः ।
 महासिपाशशक्तिदण्डधारकैः निशाचरैः
 परिप्लुतं कृतं शवैश्च येन भूमिमण्डलम् ॥ ५॥

 विशालदंष्ट्रकुम्भकर्णमेघरावकारकैः
 तथाहिरावणाद्यकम्पनातिकायजित्वरैः ।
 सुरक्षितां मनोरमां सुवर्णलङ्कनागरीं
 निजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः ॥ ६॥

 प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणैः
 विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः ।
 पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदनं
 सुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥ ७॥

 करालकालरूपिणं महोग्रचापधारिणं
 कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम् ।
 विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकं
 भजामिजित्वरं तथोर्मिलापतेः प्रियाग्रजम् ॥ ८॥


 इतस्ततः मुहुर्मुहुः परिभ्रमन्ति कौन्तिकाः
 अनुप्लवप्रवाहप्रासिकाश्च वैजयन्तिकाः ।
 मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां
 अभिक्रमेण राघवस्य ताण्डवाकृतेः गताः ॥ ९॥

 निराकृतिं निरामयं तथादिसृष्टिकारणं
महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम् ।
 निरङ्कुशं निजात्मभक्तजन्ममृत्युनाशकं
 अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥ १०॥


 करालपालिचक्रशूलतीक्ष्णभिन्दिपालकैः
 कुठारसर्वलासिधेनुकेलिशल्यमुद्गरैः ।
 सुपुष्करेण पुष्कराञ्च पुष्करास्त्रमारणैः
 सदाप्लुतं निशाचरैः सुपुष्करञ्च पुष्करम् ॥ ११॥

 प्रपन्नभक्तरक्षकं वसुन्धरात्मजाप्रियं
 कपीशवृन्दसेवितं समस्तदूषणापहम् ।
 सुरासुराभिवन्दितं निशाचरान्तकं विभुं
 जगत्प्रशस्तिकारणं भजेह राममीश्वरम् ॥ १२॥

 इति श्रीभागवतानन्दगुरुणा विरचिते
 श्रीराघवेन्द्रचरिते इन्द्रादि देवगणैः
 कृतं श्रीरामताण्डवस्तोत्रं सम्पूर्णम् ।