Saturday, June 6, 2026

 श्रीधनलक्ष्मीस्तोत्रम्
 श्रीधनदा उवाच-
 देवी देवमुपागम्य नीलकण्ठं मम प्रियम्
 कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १॥

 श्रीदेव्युवाच-
 ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
 दरिद्र-दलनोपायमञ्जसैव धनप्रदम् ॥ २॥

 श्रीशिव उवाच-
 पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
 उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३॥

 ससीतं सानुजं रामं साञ्जनेयं सहानुगम् ।
 प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥ ४॥

 धनदं श्रद्दधानानां सद्यः सुलभकारकम् ।
 योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥ ५॥

 पठन्तः पाठयन्तोऽपि ब्राह्मणैरास्तिकोत्तमैः ।
 धनलाभो भवेदाशु नाशमेति दरिद्रता ॥ ६॥

 भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् ।
 प्रार्थयेत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥ ७॥

धर्मदे धनदे देवि दानशीले दयाकरे ।
 त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ॥ ८॥

धरामरप्रिये पुण्ये धन्ये धनदपूजिते ।
 सुधनं धार्मिकं देहि यजमानाय सत्वरम् ॥ ९॥

 (यजनाय सुसत्वरम्) रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
 शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ॥ १०॥
(शशिप्रभमनोमूर्ते) आरक्त-चरणाम्भोजे सिद्धि-सर्वार्थदायिके ।
 (सिद्धसर्वाङ्गभूषिते) दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ॥ ११॥

 समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
 (अधिकपाठ. जातरूपमणीन्द्वादि-भूषिते भूमिभूषिते ।)
 शरच्चन्द्रमुखे नीले नील-नीरज-लोचने ॥ १२॥

 चञ्चरीकचमू-चारु-श्रीहार-कुटिलालके ।
 मत्ते भगवति मातः कलकण्ठरवामृते ॥ १३॥

 (मुखामृते) हासावलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
 रूप-लावण्य-तारूण्य-कारूण्य-गुणभाजने ॥ १४॥

 क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे ।
 रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥ १५॥

 प्रयच्छ यजमानाय धनं धर्मैकसाधनम् ।
 मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥ १६॥

 (मातर्मे मावि) कृपया करुणागारे प्रार्थितं कुरु मे शुभे ।
 वसुधे वसुधारूपे वसु-वासव-वन्दिते ॥ १७॥

 धनदे यजमानाय वरदे वरदा भव ।
 (यजनायैव) ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशङ्करे ॥ १८॥

 (ब्रह्मण्ये ब्राह्मणे) स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
 श्रीकरे शङ्करे श्रीदे प्रसीद मयि किङ्करे ॥ १९॥

 पार्वतीशप्रसादेन सुरेश-किङ्करेरितम् ।
 श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥ २०॥

 सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
 धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
 भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥ २१॥
 ॥ इति श्रीधनलक्ष्मीस्तोत्रं अथवा धनेश्वरी सम्पूर्णम् ॥