Sunday, June 7, 2026

 ॥ अथ श्री शिवाष्टकम् ॥

 प्रभुं प्राणनाथं विभुं विश्वनाथं 

जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं

 महाकालकालं गणेशाधिपालम् ।
 जटाजूटगङ्गोत्तरङ्गैर्विशालं

 शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

 मुदामाकरं मण्डनं मण्डयन्तं

 महामण्डलं भस्मभूषाधरं तम् ।
 अनादिह्यपारं महामोहहारं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

 वटाधोनिवासं महाट्टाट्टहासं 

महापापनाशं सदासुप्रकाशम् ।
 गिरीशं गणेशं महेशं सुरेशं

 शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

 गिरिन्द्रात्मजासंग्रहीतार्धदेहं 

गिरौ संस्थितं सर्वदा सन्नगेहम् ।
 परब्रह्मब्रह्मादिभिर्वन्ध्यमानं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

 कपालं त्रिशूलं कराभ्यां दधानं 

पदाम्भोजनम्राय कामं ददानम् ।
 बलीवर्दयानं सुराणां प्रधानं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

 शरच्चन्द्रगात्रं गुणानन्द पात्रं

 त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
 अपर्णाकलत्रं चरित्रं विचित्रं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

 हरं सर्पहारं चिता भूविहारं 

भवं वेदसारं सदा निर्विकारम् ।
 श्मशाने वसन्तं मनोजं दहन्तं 

शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

 स्तवं यः प्रभाते नरः शूलपाणे 

पठेत् सर्वदा भर्गभावानुरक्तः ।
 स पुत्रं धनं धान्यमित्रं कलत्रं 

विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९॥

 ॥ इति शिवाष्टकं सम्पूर्णम् ॥