Tuesday, June 9, 2026

 केतुस्तोत्रम्

 अथ केतुस्तोत्रप्रारम्भः ।

 ॐ अस्य श्रीकेतुस्तोत्रमहामन्त्रस्य
वामदेव ॠषिः ।
 अनुष्टुप्छन्दः ।
 केतुर्देवता ।
 केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

 गौतम उवाच ।


 मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
 सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥


 सूत उवाच ।

 श‍ृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
 गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २॥


 आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
 तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥


 पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
 सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४॥


 नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
 एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥


 द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
 पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥


 नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
 पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥


 कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
 पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८॥


 नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
 केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥

 स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
 ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥


 केतोः करालवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।
 कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥


 दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
 वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥


 मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
 तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥



 इति केतुस्तोत्रं सम्पूर्णम् ।