Tuesday, June 9, 2026

  आरती भगवान गंगाधर

 ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
 त्वं मां पालय नित्यं कृपया जगदीशा ॥
 हर हर हर महादेव ॥ १॥

 कैलासे गिरिशिखरे कल्पद्रुमविपिने ।
 गुञ्जति मधुकरपुञ्जे कुञ्जवने गहने ॥
 कोकिलकूजित खेलत हंसावन ललिता ।
 रचयति कलाकलापं नृत्यति मुदसहिता ॥
 हर हर हर महादेव ॥ २॥


 तस्मिल्ललितसुदेशे शाला मणिरचिता ।
 तन्मध्ये हरनिकटे गौरी मुदसहिता ॥
 क्रीडा रचयति भूषारञ्जित निजमीशम् ।
 इन्द्रादिक सुर सेवत नामयते शीशम् ॥
 हर हर हर महादेव ॥ ३॥

 बिबुधबधू बहु नृत्यत हृदये मुदसहिता ।
 किन्नर गायन कुरुते सप्त स्वर सहिता ॥
 धिनकत थै थै धिनकत मृदङ् वादयते ।
 क्वण क्वण ललिता वेणुं मधुरं नाटयते ॥
 हर हर हर महादेव ॥ ४॥


 रुण रुण चरणे रचयति नूपुरमुज्ज्चलिता ।
 चक्रावर्ते भ्रमयति कुरुते तां धिक ताम् ॥
 तां तां लुप चुप तां तां डमरू वादयते ।
 अंगुष्ठांगुलिनादं लासकतां कुरुते ॥
 हर हर हर महादेव ॥ ५॥

 कर्पूरद्युतिगौरं पञ्चाननसहितम् ।
 त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम् ॥
 सुन्दरजटाकलापं पावकयुतभालम् ।
 डमरुत्रिशूलपिनाकं करधृतनृकपालम् ॥
 हर हर हर महादेव ॥ ६॥

 मुण्डै रचयति माला पन्नगमुपवीतम् ।
 वामविभागे गिरिजारूपं अतिललितम् ॥
 सुन्दरसकलशरीरे कृतभस्माभरणम् ।
 इति वृषभध्वजरूपं तापत्रयहरणम् ॥
 हर हर हर महादेव ॥ ७॥

 शङ्खनिनादं कृत्वा झल्लरि नादयते ।
 नीराजयते ब्रह्मा वेदकऋचां पठते ॥
 अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
 अवलोकयति महेशं ईशं अभिनत्वा ॥
 हर हर हर महादेव ॥ ८॥


 ध्यानं आरति समये हृदये अति कृत्वा ।
 रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
संगतिमेवं प्रतिदिन पठनं यः कुरुते ।
 शिवसायुज्यं गच्छति भक्त्या यः श‍ृणुते ॥
 हर हर हर महादेव ॥ ९॥